मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २३, ऋक् १७

संहिता

विश्वे॑भ्यो॒ हि त्वा॒ भुव॑नेभ्य॒स्परि॒ त्वष्टाज॑न॒त्साम्न॑ःसाम्नः क॒विः ।
स ऋ॑ण॒चिदृ॑ण॒या ब्रह्म॑ण॒स्पति॑र्द्रु॒हो ह॒न्ता म॒ह ऋ॒तस्य॑ ध॒र्तरि॑ ॥

पदपाठः

विश्वे॑भ्यः । हि । त्वा॒ । भुव॑नेभ्यः । परि॑ । त्वष्टा॑ । अज॑नत् । साम्नः॑ऽसाम्नः । क॒विः ।
सः । ऋ॒ण॒ऽचित् । ऋ॒ण॒ऽयाः । ब्रह्म॑णः । पतिः॑ । द्रु॒हः । ह॒न्ता । म॒हः । ऋ॒तस्य॑ । ध॒र्तरि॑ ॥

सायणभाष्यम्

हेब्रह्मणस्पते त्वष्टाप्रजापतिः विश्वेभ्योभुवनेभ्यस्परिसर्वेभ्योभूतजातेभ्यः उत्कृष्टंत्वात्वां अजन द्धि अजीजनत् खलु ततस्त्वंसाम्नःसाम्नः सर्वस्यापिसाम्नःकविः कुशब्दे अचइरितिइमत्ययः उच्चारयि ताकार्तासि यद्वा कविःक्रान्तदर्शीत्वष्टासाम्नःसाम्नः सर्वस्यापिसाम्नाः सारेण त्वामजीजनत् किञ्च सब्रह्मणस्पतिः महोमहतऋतस्ययज्ञधर्तरि धारकेयजमानेऋणचित् स्तोतृकाममृणमिवचिनोतीति ऋणचित् किञ्च ऋणयाः पापरूपस्यऋणस्ययाव्यितापृथक्कर्ताचद्रुहः कर्मणोद्रोग्धुरसुरस्यहन्ताभवेति ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२