मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २३, ऋक् १८

संहिता

तव॑ श्रि॒ये व्य॑जिहीत॒ पर्व॑तो॒ गवां॑ गो॒त्रमु॒दसृ॑जो॒ यद॑ङ्गिरः ।
इन्द्रे॑ण यु॒जा तम॑सा॒ परी॑वृतं॒ बृह॑स्पते॒ निर॒पामौ॑ब्जो अर्ण॒वम् ॥

पदपाठः

तव॑ । श्रि॒ये । वि । अ॒जि॒ही॒त॒ । पर्व॑तः । गवा॑म् । गो॒त्रम् । उ॒त्ऽअसृ॑जः । यत् । अ॒ङ्गि॒रः॒ ।
इन्द्रे॑ण । यु॒जा । तम॑सा । परि॑ऽवृतम् । बृह॑स्पते । निः । अ॒पाम् । औ॒ब्जः॒ । अ॒र्ण॒वम् ॥

सायणभाष्यम्

अङ्गिरः आङ्गिरसहेबृहस्पते गवामावारकोबलेनाधिष्ठितः पर्वतः तवश्रियेआश्रयणार्थं व्यजि- हीत विवृतद्वारतामगच्छत् ततस्त्वंयद्यदागोत्रं इनित्रकट्यचश्छेतिस मूहार्थेत्रप्रत्ययः गवां समूहमु दस्रुजोनिरगमयः तदाइन्द्रेणयुजासहायेनयुक्तस्त्वंतमसावृत्रासुरेणपरीवृतंपरितआक्रान्तंअपामर्णवं स्थानभूतं मेघंनिरौच्चः नितरामधोमुखमकार्षीः ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२