मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २४, ऋक् २

संहिता

यो नन्त्वा॒न्यन॑म॒न्न्योज॑सो॒ताद॑र्दर्म॒न्युना॒ शम्ब॑राणि॒ वि ।
प्राच्या॑वय॒दच्यु॑ता॒ ब्रह्म॑ण॒स्पति॒रा चावि॑श॒द्वसु॑मन्तं॒ वि पर्व॑तम् ॥

पदपाठः

यः । नन्त्वा॑नि । अन॑मत् । नि । ओज॑सा । उ॒त । अ॒द॒र्दः॒ । म॒न्युना॑ । शम्ब॑राणि । वि ।
प्र । अ॒च्य॒व॒य॒त् । अच्यु॑ता । ब्रह्म॑णः । पतिः॑ । आ । च॒ । अवि॑शत् । वसु॑ऽमन्तम् । वि । पर्व॑तम् ॥

सायणभाष्यम्

योब्रह्मणस्पतिः नन्त्वानि नमनीयानिराक्षसादीनि ओजसाबलेनन्यनमत् नितरामनमयत् प्रह्वी भूतान्यकरोत् उतअपिच सब्रह्मणस्पतिर्मन्युना मनुनाक्रोधेनवा मन्युर्मन्यतेर्दीप्तिकर्मणः क्रोधकर्मणो वधकर्मणोवेतियास्कः । शंबराणि मेघनामैतत् मेघान् व्यदर्दः वर्षणार्थंविदारितवान् द्दृविदारणेइ त्यस्माद्यङ् लुगन्ताल्लङ्येतद्रूपम् तदनन्तरंअच्युताअच्युतानिनैश्छल्येनमेघेवस्थितान्युदकानि प्राच्या वयत् प्रकर्षेणगमयत् मेघान्निरगमयदित्यर्थः तथावसुमंतंगोरूपधनवन्तं पर्वतंबलनाम्नासुरेणबिलद्वा रेपिधानार्थंनिहितं शिलोच्चयंआचाअभिमुख्येनचेत् चशाब्दश्चेदर्थः समुच्चयार्थत्वेतुचवायोगेप्रथमेति पूर्वस्याच्यावयदित्यस्याद्युदात्तत्वंस्यात् अस्यचसर्वानुदात्तत्वं चेदर्थेतु निपातैर्यद्यदिहन्तेतिनिघात प्रतिषेधःसिध्यति व्यविशत् विशेषेणप्रविशति तदानींतद्गोरूपंधनं प्राप्नोदित्यर्थः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः