मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २४, ऋक् ३

संहिता

तद्दे॒वानां॑ दे॒वत॑माय॒ कर्त्व॒मश्र॑थ्नन्दृ॒ळ्हाव्र॑दन्त वीळि॒ता ।
उद्गा आ॑ज॒दभि॑न॒द्ब्रह्म॑णा व॒लमगू॑ह॒त्तमो॒ व्य॑चक्षय॒त्स्व॑ः ॥

पदपाठः

तत् । दे॒वाना॑म् । दे॒वऽत॑माय । कर्त्व॑म् । अश्र॑थ्नन् । दृ॒ळ्हा । अव्र॑दन्त । वी॒ळि॒ता ।
उत् । गाः । आ॒ज॒त् । अभि॑नत् । ब्रह्म॑णा । व॒लम् । अगू॑हत् । तमः॑ । वि । अ॒च॒क्ष॒य॒त् । स्व१॒॑रिति॑ स्वः॑ ॥

सायणभाष्यम्

देवानामिन्द्रादीनांमध्येदेवतमाय अतिशयेनदानादिगुणयुक्ताय षष्ठ्य्र्थेचतुर्थी ईदृशस्य ब्रह्मण स्पतेस्तत्कर्त्वंकर्तव्यं कर्म किंपुनस्तदितिचेदुच्यते—दृह्ळा दृढानिपर्वतादीनि अश्रश्नन् श्रंथविमोचनप्र तिहर्षणयोः अस्यबलेनश्रथितानि विश्लिष्टान्यभूवन् तथावीळितावीळितानिसंस्तं भितानिदृढीकृता- निवृक्षादीनि वीळयतिश्चव्रीडयतिश्चसंस्तंभकर्माणावितियास्कः । अव्रदन्त मृदून्यभवन् व्रदतिर्मृदू- भावकर्मा अपिचसब्रह्मणस्पतिः बलेनापहृतागाः उदाजत् अजगतिक्षेपणयोः देवान्प्रत्युदगमयत् तथाब्रह्मणाआत्मीयेनमन्त्रेणबलंसर्वस्यावरकमसुरंअभिनत् मन्त्रसामर्थ्येनाभैत्सीत् तदनन्तरंबलेनो त्पादितंतमः ध्वान्तंअगूहत् गुहूसंवरणे गूढमदृश्यमकरोत् तदनन्तरं स्वरादित्यंव्यचक्षयत् तमसोनि राकरणेनतत्स्थमदर्शयत् चष्टिःपश्यतिकर्मा ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः