मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २४, ऋक् ४

संहिता

अश्मा॑स्यमव॒तं ब्रह्म॑ण॒स्पति॒र्मधु॑धारम॒भि यमोज॒सातृ॑णत् ।
तमे॒व विश्वे॑ पपिरे स्व॒र्दृशो॑ ब॒हु सा॒कं सि॑सिचु॒रुत्स॑मु॒द्रिण॑म् ॥

पदपाठः

अश्म॑ऽआस्यम् । अ॒व॒तम् । ब्रह्म॑णः । पतिः॑ । मधु॑ऽधारम् । अ॒भि । यम् । ओज॑सा । अतृ॑णत् ।
तम् । ए॒व । विश्वे॑ । प॒पि॒रे॒ । स्वः॒ऽदृशः॑ । ब॒हु । सा॒कम् । सि॒सि॒चुः॒ । उत्स॑म् । उ॒द्रिण॑म् ॥

सायणभाष्यम्

ब्रह्मणस्पतिः ब्रह्मणोमन्त्रस्यपतिः पालयितादेवः अश्मास्यं अश्मवदृढतरास्यम् यास्कस्त्वाह—अशनवन्तमास्यन्दनवन्तमिति । व्यापनवन्तम् आसेचनवन्तमितितस्यार्थः मधुधारं मधुर्मादयित्री उदकधारायस्यतादृशम् अवतंअवस्तात्ततंविस्तृतं यंमेघंओजसाबलेनअभ्यतृण त् उतृदिर् हिंसानाद रयोः अहिंसीत् वर्शणार्थवधीदित्यर्थः तमेवमेघंविश्वेसर्वेस्वर्दृशः स्वरादित्यः तस्यसंबन्धिनोद्रष्टारो रश्मयः पपिरे घर्मकालेपिबन्ति मेघेनवृष्टस्योदकस्यपानात्तमेवपिबन्तीत्युच्यते तेचरश्मयोवर्षासु उत्सं उत्सेचनवन्तंउद्रिणंउदकवन्तंमेघंसाकंसहयुगपदेवबहुसिसिचुः घर्मकालेयत्पीतं ततोपिबहुतरं सहस्रगुणितं सिञ्चन्तीत्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः