मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २४, ऋक् ६

संहिता

अ॒भि॒नक्ष॑न्तो अ॒भि ये तमा॑न॒शुर्नि॒धिं प॑णी॒नां प॑र॒मं गुहा॑ हि॒तम् ।
ते वि॒द्वांसः॑ प्रति॒चक्ष्यानृ॑ता॒ पुन॒र्यत॑ उ॒ आय॒न्तदुदी॑युरा॒विश॑म् ॥

पदपाठः

अ॒भि॒ऽनक्ष॑न्तः । अ॒भि । ये । तम् । आ॒न॒शुः । नि॒ऽधिम् । प॒णी॒नाम् । प॒र॒मम् । गुहा॑ । हि॒तम् ।
ते । वि॒द्वांसः॑ । प्र॒ति॒ऽचक्ष्य॑ । अनृ॑ता । पुनः॑ । यतः॑ । ऊं॒ इति॑ । आय॑न् । तत् । उत् । ई॒युः॒ । आ॒ऽविश॑म् ॥

सायणभाष्यम्

गोसमूहेपणिभिरसुरैरपहृतेसति पणीनांस्थानं सरमाख्ययादेवशुन्याज्ञात्वा ब्रह्मणस्पतिनासृष्टा अङ्गिरसस्तत् स्थानंप्राप्य गोसमूहं पणिभिर्निर्मितामायाश्चदृष्ट्वा असुरनिवासस्थानं स्वहस्तोद्भू तेनाग्निनादग्ध्वा प्रत्यागच्छन् तदेतत् द्वृचेनोच्यते अभिनक्षन्तः अभितोगच्छन्तोयेङ्गिरसः तंनिधि गोसमूहरूपं निधानं धनं परममुत्कृष्टं पणानां तृतीयार्थेषष्ठी पणिभिः गुहागुहायां हितंनिहितं स्था- पितं अभ्यानशुः अभिलक्ष्यानशिरे प्राप्तवन्तः विद्वांसोभिज्ञास्तेङ्गिरसः अनृताअनृतानिअसुरैः कृता मायाः प्रतिचक्ष्यदृष्ट्वा आविशं आवेष्टुंप्रवेष्टुंयतउयतएव स्थानादायन अच्छगन् तत्स्थानं पुनरुदीयुः उदगच्छन् उत्कर्षेणप्राप्ताः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः