मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २४, ऋक् ७

संहिता

ऋ॒तावा॑नः प्रति॒चक्ष्यानृ॑ता॒ पुन॒रात॒ आ त॑स्थुः क॒वयो॑ म॒हस्प॒थः ।
ते बा॒हुभ्यां॑ धमि॒तम॒ग्निमश्म॑नि॒ नकि॒ः षो अ॒स्त्यर॑णो ज॒हुर्हि तम् ॥

पदपाठः

ऋ॒तऽवा॑नः । प्र॒ति॒ऽचक्ष्य॑ । अनृ॑ता । पुनः॑ । आ । अतः॑ । आ । त॒स्थुः॒ । क॒वयः॑ । म॒हः । प॒थः ।
ते । बा॒हुऽभ्या॑म् । ध॒मि॒तम् । अ॒ग्निम् । अश्म॑नि । नकिः॑ । सः । अ॒स्ति॒ । अर॑णः । ज॒हुः । हि । तम् ॥

सायणभाष्यम्

ऋतावानः ऋतमितिसत्यनामधेयं तद्वन्तः कवयः क्रान्तदर्शिनः सर्वज्ञाअङ्गिरसः अनृताअनृता- निप्रतिचक्ष्यपूर्वोक्तप्रकारेणदृष्ट्वाअतः अस्मात् स्थानात् पुनराजिगमिषवः महस्पथोमहतोमार्गान् प्रतिआतस्थुः अवतस्थिरे अवतिष्ठमानाश्चते बाहुभ्यांहस्ताभ्यांधमितंमन्थनेनोत्पादितं प्रज्वालितं तमग्निंअश्मनिपणीनांनिवासभूतेशिलोच्च्येजहुर्हि दग्धुंत्यक्तवन्तः खलु अरणः अरमयितादाहेनदुःख- कारीसोग्निः पूर्वंतत्रनकिरस्तिनविद्यते अविद्यमानमग्निंस्वसामर्थ्यादुत्पाद्यतत्रप्रचिक्षिपुरित्यर्थः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः