मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २४, ऋक् ८

संहिता

ऋ॒तज्ये॑न क्षि॒प्रेण॒ ब्रह्म॑ण॒स्पति॒र्यत्र॒ वष्टि॒ प्र तद॑श्नोति॒ धन्व॑ना ।
तस्य॑ सा॒ध्वीरिष॑वो॒ याभि॒रस्य॑ति नृ॒चक्ष॑सो दृ॒शये॒ कर्ण॑योनयः ॥

पदपाठः

ऋ॒तऽज्ये॑न । क्षि॒प्रेण॑ । ब्रह्म॑णः । पतिः॑ । यत्र॑ । वष्टि॑ । प्र । तत् । अ॒श्नो॒ति॒ । धन्व॑ना ।
तस्य॑ । सा॒ध्वीः । इष॑वः । याभिः॑ । अस्य॑ति । नृ॒ऽचक्ष॑सः । दृ॒शये॑ । कर्ण॑ऽयोनयः ॥

सायणभाष्यम्

ऋतज्येन ऋतंसत्यमेवज्यायस्यतेनक्षिप्रण इषूणांक्षेपकेणधन्वनाधारणभूतेनधनुषायः ब्रह्मणस्प- तिः ब्रह्मणोमन्त्रस्यपालयितादेवः यत्रयस्मिन्विषयेवष्टिकामयतेतत्प्राश्नोति प्रकर्षेणव्याप्नोति अश्नोते र्व्यत्ययेनपरस्मैपदम् तस्यधनुषः साध्वीः साधिकास्ताइपवोभवन्ति याभिरिषुभिः ब्रह्मणस्पतिरस्य- ति राक्षसादीन् क्षिपति कीद्रुश्यस्ताः न्रुचक्षसः नॄन्पश्यतः उपलक्षणमेतत् सर्वज्ञस्यब्रह्मणस्पतेः दृशये दर्शनायज्ञानायजाताः कर्णयोनयः श्रोत्रेन्द्रियेणग्राह्यमन्त्रपूताआकर्णकृष्टावाबाणाः ब्रह्मणस्पतिर्मन्त्रैरे वसर्वंसाधयतीतिभावः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः