मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २४, ऋक् ९

संहिता

स सं॑न॒यः स वि॑न॒यः पु॒रोहि॑त॒ः स सुष्टु॑त॒ः स यु॒धि ब्रह्म॑ण॒स्पति॑ः ।
चा॒क्ष्मो यद्वाजं॒ भर॑ते म॒ती धनादित्सूर्य॑स्तपति तप्य॒तुर्वृथा॑ ॥

पदपाठः

सः । स॒म्ऽन॒यः । सः । वि॒ऽन॒यः । पु॒रःऽहि॑तः । सः । सुऽस्तु॑तः । सः । यु॒धि । ब्रह्म॑णः । पतिः॑ ।
चा॒क्ष्मः । यत् । वाज॑म् । भर॑ते । म॒ती । धना॑ । आत् । इत् । सूर्यः॑ । त॒प॒ति॒ । त॒प्य॒तुः । वृथा॑ ॥

सायणभाष्यम्

पुरोहितोदेवैः पुरतोत्रस्थापितः सब्रह्मणस्पतिः संनयः विश्लिष्टानांमन्त्रैःसंगमयिताभवति विनयः संगतानांविविधंनेतापृथक्कर्तापिसएव तथा ससुष्टुतः शोभनंस्तोतृभिःस्तुतश्च भवति तथायुधिसंग्रामे सस्तोतॄणामनुग्रहाय प्रादुर्भवतीतिशेषः यद्यदाचाक्ष्मः चष्टेः क्षमतेर्वासर्वस्यद्रष्टासर्वसहोवा ब्रह्मणा स्पतिनादत्तैरन्नैर्धनैश्चयज्ञस्यसिद्धत्वात्स्वयंकेवलंहवींषिभुञ्चानएववर्ततइत्यर्थः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः