मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २४, ऋक् १०

संहिता

वि॒भु प्र॒भु प्र॑थ॒मं मे॒हना॑वतो॒ बृह॒स्पते॑ः सुवि॒दत्रा॑णि॒ राध्या॑ ।
इ॒मा सा॒तानि॑ वे॒न्यस्य॑ वा॒जिनो॒ येन॒ जना॑ उ॒भये॑ भुञ्ज॒ते विशः॑ ॥

पदपाठः

वि॒ऽभु । प्र॒ऽभु । प्र॒थ॒मम् । मे॒हना॑ऽवतः । बृह॒स्पतेः॑ । सु॒ऽवि॒दत्रा॑णि । राध्या॑ ।
इ॒मा । सा॒तानि॑ । वे॒न्यस्य॑ । वा॒जिनः॑ । येन॑ । जनाः॑ । उ॒भये॑ । भु॒ञ्ज॒ते । विशः॑ ॥

सायणभाष्यम्

विभुविभूनिव्याप्तानि प्रभुप्रभूणिप्रौढानि प्रथमं प्रथमानिमुख्यानि एवंभूतानिमेहनावतः वर्षण वतोवृष्टिप्रदस्यबृहस्पतेः बृहतोमन्त्रस्यपालयितुः संबन्धीनिसुविदत्राणि विदॢलाभे सुविदेः कत्रन् सुष्ठुलब्धव्यानि सुविदत्रंधनंभवतीतियास्कः । राध्याराध्यानिसम्यक् साधनीयानिप्राप्तव्यानीतिया- वत् इमासातानीमानिधनानिवेन्यस्यकमनीयस्यवाजिनो न्नवतोबृहस्पतेः तृतीयार्थे षष्ठी बृहस्पति नादत्तानियेनधनेनउभयेउभयविधाजनाः स्तोतारोयजमानाश्चदेवामनुष्याश्चवा विशोनिविष्टाः स- न्तोभुञ्चते भोगान् लभन्ते तत्सर्वंबृहस्पतिनादत्तमित्यर्थः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः