मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २४, ऋक् ११

संहिता

योऽव॑रे वृ॒जने॑ वि॒श्वथा॑ वि॒भुर्म॒हामु॑ र॒ण्वः शव॑सा व॒वक्षि॑थ ।
स दे॒वो दे॒वान्प्रति॑ पप्रथे पृ॒थु विश्वेदु॒ ता प॑रि॒भूर्ब्रह्म॑ण॒स्पति॑ः ॥

पदपाठः

यः । अव॑रे । वृ॒जने॑ । वि॒श्वऽथा॑ । वि॒ऽभुः । म॒हाम् । ऊं॒ इति॑ । र॒ण्वः । शव॑सा । व॒वक्षि॑थ ।
सः । दे॒वः । दे॒वान् । प्रति॑ । प॒प्र॒थे॒ । पृ॒थु । विश्वा॑ । इत् । ऊं॒ इति॑ । ता । प॒रि॒ऽभूः । ब्रह्म॑णः । पतिः॑ ॥

सायणभाष्यम्

विश्वथासर्वप्रकारेणविभुर्व्याप्तः रण्वोरमयिता स्तोतव्योवायोब्रह्मणस्पतिः अवरेनिकृष्टे वृजनेवर्ज नहेतुभूतेबलेवर्तमानंदुर्बलमितियावत् महामुमहान्तंच छान्दसोवर्णलोपः उभयविधंस्तोतारंशवसा- आत्मीयेनबलेन ववक्षिथ वोढुमिच्छति सर्वदावहतीतियावत् वहतेःसन्नन्तस्यलिट्येतद्रूपं पुरुषव्यत्य- यः सदेवोदानादिगुणयुक्तः देवान्प्रतिसर्वेषांदेवानांप्रतिनिधिः सन् पृथुपप्रथे अत्यन्तंप्रथते यशसावि- स्तीर्णोभवतीतियावत् यस्मादेवंतस्मात् विश्वेदुसर्वाण्येवतातानिसर्वाणि भूतजातानिपरिभूः परि- भवन् अभिभवन् वर्ततइतिशेषः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः