मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २४, ऋक् १३

संहिता

उ॒ताशि॑ष्ठा॒ अनु॑ शृण्वन्ति॒ वह्न॑यः स॒भेयो॒ विप्रो॑ भरते म॒ती धना॑ ।
वी॒ळु॒द्वेषा॒ अनु॒ वश॑ ऋ॒णमा॑द॒दिः स ह॑ वा॒जी स॑मि॒थे ब्रह्म॑ण॒स्पति॑ः ॥

पदपाठः

उ॒त । आशि॑ष्ठाः । अनु॑ । शृ॒ण्व॒न्ति॒ । वह्न॑यः । स॒भेयः॑ । विप्रः॑ । भ॒र॒ते॒ । म॒ती । धना॑ ।
वी॒ळु॒ऽद्वेषाः॑ । अनु॑ । वशा॑ । ऋ॒णम् । आ॒ऽद॒दिः । सः । ह॒ । वा॒जी । स॒म्ऽइ॒थे । ब्रह्म॑णः । पतिः॑ ॥

सायणभाष्यम्

उतअपिचआशिष्ठाः आशुतराः शीघ्रगामिनोवह्नयः अश्वनामैतत् वोढारोब्रह्मणस्पतेरश्वाअनुश्रृ ण्वन्ति अस्माभिः कृतंस्तोत्रं अनुक्रमेणश्रृण्वन्ति यद्वा ब्रह्मणस्पतिना कृतमनुशासनं शृण्वन्ति अतस्ते तमस्मदीयंयज्ञं प्रापयन्त्वितिशेषः सभेयः सभायांसाधुः ढश्छन्दसीतिढः विप्रोमेधावीअध्वर्युर्होतावा मतीमत्यामननीयेनस्तोत्रेण सुपांसुलुगितिपूर्वसवर्णदीर्घः धनाहविर्लक्षणानिधनानितस्मै ब्रह्मणस्प- तये भरतेबिभर्ति संपादयतीतियावत् यद्वा स्तोत्रेणधनानिभरते बिभर्तिपोषयति अतोवीळृद्वेषाःवी- छन् दृढान् प्रबलान् राक्षसादीन् द्वेष्टीति तादृशोब्रह्मणस्पतिः वशावशायागोः सुपांसुलुगितिषष्ठ्या- लुक् ऋत्यकइतिप्रकृतिभावः ऋणंअस्माभिर्यज्वभिः प्रदेयं अवदानात्मकं अनुअनुक्रमेणाददिरादाताभवत्वितिशेषः अवदानस्य ऋणत्वंचतैत्तिरीयेत्रिभिरृणवाजायतेब्रह्मचर्येण ऋषिभ्यइत्यादिनास्पष्टमान्त्रातम् । यद्वा अनुरानुगुण्ये वशावशस्यकामस्याभिलाषस्यानुगुणं आदा- ताभवत्वितियोज्यम् हशब्दःप्रसिद्धौ सखलु ब्रह्मणस्पतिः समिथे संयन्ति सङच्छन्तेस्मिन्नाहुतिभिर्दे- वाइतिसमिथोयज्ञः तस्मिन्वाजी अन्नवान् तस्माद्धविषआदाताभव त्वित्यर्थः ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः