मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २४, ऋक् १४

संहिता

ब्रह्म॑ण॒स्पते॑रभवद्यथाव॒शं स॒त्यो म॒न्युर्महि॒ कर्मा॑ करिष्य॒तः ।
यो गा उ॒दाज॒त्स दि॒वे वि चा॑भजन्म॒हीव॑ री॒तिः शव॑सासर॒त्पृथ॑क् ॥

पदपाठः

ब्रह्म॑णः । पतेः॑ । अ॒भ॒व॒त् । य॒था॒ऽव॒शम् । स॒त्यः । म॒न्युः । महि॑ । कर्म॑ । क॒रि॒ष्य॒तः ।
यः । गाः । उ॒त्ऽआज॑त् । सः । दि॒वे । वि । च॒ । अ॒भ॒ज॒त् । म॒हीऽइ॑व । री॒तिः । शव॑सा । अ॒स॒र॒त् । पृथ॑क् ॥

सायणभाष्यम्

महिमहत्कर्मकरिष्यतः ब्रह्मणस्पतेः मन्युः मननसाधनोमन्त्रः क्रोधोवायथावशं यथाकामंसत्यः अवितथोभवत् सयथाकामयतेतथाकरोतीत्यर्थः योब्रह्मणस्पतिः पणिभिरपहृतागाः उदाजत् उदग- मयत् गुहायानिरगमयदित्यर्थः सब्रह्मणस्पतिः दिवेद्युलोकायतत्रत्येभ्योदेवेभ्यइत्यर्थः व्यभजच्च तागाविभक्ताश्चाकरोत् सचगोसमूहः महीवरीतिः महतीस्तुतिरिव रीङ्स्रवणेयथागंगादीनांस्रोतः विभक्तंसत् न्म्नदेशाभिमूकंप्रसरति तथाशवसाआत्मीयेनबलेन तत्तदेवगृहंपृथक् विभिन्नंअसरत् अग- च्छत् ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः