मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २४, ऋक् १५

संहिता

ब्रह्म॑णस्पते सु॒यम॑स्य वि॒श्वहा॑ रा॒यः स्या॑म र॒थ्यो॒३॒॑ वय॑स्वतः ।
वी॒रेषु॑ वी॒राँ उप॑ पृङ्धि न॒स्त्वं यदीशा॑नो॒ ब्रह्म॑णा॒ वेषि॑ मे॒ हव॑म् ॥

पदपाठः

ब्रह्म॑णः । प॒ते॒ । सु॒ऽयम॑स्य । वि॒श्वहा॑ । रा॒यः । स्या॒म॒ । र॒थ्यः॑ । वय॑स्वतः ।
वी॒रेषु॑ । वी॒रान् । उप॑ । पृ॒ङ्धि॒ । नः॒ । त्वम् । यत् । ईशा॑नः । ब्रह्म॑णा । वेषि॑ । मे॒ । हव॑म् ॥

सायणभाष्यम्

हेब्रह्मणस्पते मन्त्राधिपते सुयमस्यसुष्ठुनियन्तव्यस्य वयस्वतोन्नयुक्तस्य रायोधनस्यविश्वहावि- श्वोषुसर्वेष्वहस्सुरथ्योधिपतयः स्यामभूयास्म रथाएषांसन्तीतिरथ्यः छन्दसीवनिपावितिमत्वर्थी- योयः ईकारः अपिच नोस्माकंवीरेषुवीर्याज्जातेष्वस्मदीयेषुपुत्रेषुवीरान् पुत्रान् त्वंउपपृंग्धि सं- पृक्तान्कुरु उत्पादय पृचीसंपर्के रौधादिकः वयंपौत्रानपिलभेमहीतियावत् यद्यतः ईशानः सर्व- स्येश्वरस्त्वं ब्रह्मणा अन्ननामैतत् हविर्लक्षणेनान्नेनसह मेहवम् मदीयंस्तुतिलक्षणमाह्वानं वेषि कामयसे वीगतिप्रजनकान्त्यशनखादनेषु अतोमयोक्तंकुर्वित्यर्थः ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः