मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २५, ऋक् २

संहिता

वी॒रेभि॑र्वी॒रान्व॑नवद्वनुष्य॒तो गोभी॑ र॒यिं प॑प्रथ॒द्बोध॑ति॒ त्मना॑ ।
तो॒कं च॒ तस्य॒ तन॑यं च वर्धते॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पति॑ः ॥

पदपाठः

वी॒रेभिः॑ । वी॒रान् । व॒न॒व॒त् । व॒नु॒ष्य॒तः । गोभिः॑ । र॒यिम् । प॒प्र॒थ॒त् । बोध॑ति । त्मना॑ ।
तो॒कम् । च॒ । तस्य॑ । तन॑यम् । च॒ । व॒र्ध॒ते॒ । यम्ऽय॑म् । युज॑म् । कृ॒णु॒ते । ब्रह्म॑णः । पतिः॑ ॥

सायणभाष्यम्

सयजमानः वीरेभिः वीरैरात्मीयैःपुत्रैः वनुष्यतोहिंसतः वीरान् शत्रुपुत्रान् वनवत् वनुयात् हिं- स्यात् अपिच गोभिःसहितंरयिंधनंपप्रथत् प्रथयति विस्तारयति प्रथयतेर्लुङिचङ्येतद्रूपम् तथात्मना आत्मनैवबोधति सर्वंजानाति अनन्याधीनज्ञानोभवतीत्यर्थः किञ्च त्स्ययजमानस्य तोकंपुत्रः तनयं विभक्तिव्यत्ययः तनयस्तत्पुत्रश्चवर्धते प्रवृद्धोभवति तदातोकंतनयं पुत्रंपौत्रंचब्रह्मणस्पतिर्वर्धयति वृधिरन्तर्भावितण्यर्थोद्रष्टव्यः अन्यद्गतम् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः