मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २५, ऋक् ३

संहिता

सिन्धु॒र्न क्षोद॒ः शिमी॑वाँ ऋघाय॒तो वृषे॑व॒ वध्रीँ॑र॒भि व॒ष्ट्योज॑सा ।
अ॒ग्नेरि॑व॒ प्रसि॑ति॒र्नाह॒ वर्त॑वे॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पति॑ः ॥

पदपाठः

सिन्धुः॑ । न । क्षोदः॑ । शिमी॑ऽवान् । ऋ॒घा॒य॒तः । वृषा॑ऽइव । वध्री॑न् । अ॒भि । व॒ष्टि॒ । ओज॑सा ।
अ॒ग्नेःऽइ॑व । प्रऽसि॑तिः । न । अह॑ । वर्त॑वे । यम्ऽय॑म् । युज॑म् । कृ॒णु॒ते । ब्रह्म॑णः । पतिः॑ ॥

सायणभाष्यम्

सिन्धुः स्यन्दनशीलानदीक्षोदोन क्षुद्यमानंकूलंयथाभिनत्तितथा शिमीवान् शिमीतिकर्मनाम ब्रह्मणस्पतेःपरिचरणात्मनाकर्मणायुक्तोयजमानः ऋघायतोहिंसतःशत्रून् ओजसाबलेनअभिवष्टि हन्तुमभितःकामयते व्शक्रान्तौ इदमपरंनिदर्शनम् वृषेववध्रीन् वध्रयोनिष्पिष्टमुष्कानिर्वीर्याबली- वर्दाः तान् यथावृषासेचनसमर्थः सवीर्योवृषभोभिभवति तद्वत् शत्रूनभिभवतीत्यर्थः अपिचासौअग्ने- रिवप्रसितिः प्रसीयतेबद्भ्यतेनयेतिप्रसितिर्ज्वाला षिञ् बन्धने करणेक्तिन् यथा अग्नेर्ज्वालाअप्रतिहत- प्रसराएवमपिनवर्तवेवारयितुंनिवर्तयितुंवानैवशक्यते अहशब्दोवधारणे वृणोतेरन्तर्भावितण्यर्थात् वर्ततेर्वातुमर्थेतवेन्प्रत्ययः अन्यद्गतम् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः