मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २५, ऋक् ४

संहिता

तस्मा॑ अर्षन्ति दि॒व्या अ॑स॒श्चत॒ः स सत्व॑भिः प्रथ॒मो गोषु॑ गच्छति ।
अनि॑भृष्टतविषिर्ह॒न्त्योज॑सा॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पति॑ः ॥

पदपाठः

तस्मै॑ । अ॒र्ष॒न्ति॒ । दि॒व्याः । अ॒स॒श्चतः॑ । सः । सत्व॑ऽभिः । प्र॒थ॒मः । गोषु॑ । ग॒च्छ॒ति॒ ।
अनि॑भृष्टऽतविषिः । ह॒न्ति॒ । ओज॑सा । यम्ऽय॑म् । युज॑म् । कृ॒णु॒ते । ब्रह्म॑णः । पतिः॑ ॥

सायणभाष्यम्

तस्मैयजमानायदिव्यादिविभवावृष्टिलक्षणाः आपः असश्चतः असज्यमानाः अनिरुद्धाः सत्यः अर्षंतिगच्छन्ति प्राप्नुवन्ति अर्तेर्लेटिरूपम् तथासयजमानः सत्वभिः सत्वानः साधकाः परिचारकाः तैः सहितः प्रथमोन्येभ्योयजमानेभ्यः पूर्वभावीसन् गोषुगच्छति गवादिधनंप्राप्नोतीत्यर्थः किञ्च अनिभृष्टतविषिः तविषीतिबलनाम अनिभृष्टापरैरबाधितातविषीबलंयस्यतादृशः सन् ओजसाब- लेनहन्तिशत्रून् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः