मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २५, ऋक् ५

संहिता

तस्मा॒ इद्विश्वे॑ धुनयन्त॒ सिन्ध॒वोऽच्छि॑द्रा॒ शर्म॑ दधिरे पु॒रूणि॑ ।
दे॒वानां॑ सु॒म्ने सु॒भग॒ः स ए॑धते॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पति॑ः ॥

पदपाठः

तस्मै॑ । इत् । विश्वे॑ । धु॒न॒य॒न्त॒ । सिन्ध॑वः । अच्छि॑द्रा । शर्म॑ । द॒धि॒रे॒ । पु॒रूणि॑ ।
दे॒वाना॑म् । सु॒म्ने । सु॒ऽभगः॑ । सः । ए॒ध॒ते॒ । यम्ऽय॑म् । युज॑म् । कृ॒णु॒ते । ब्रह्म॑णः । पतिः॑ ॥

सायणभाष्यम्

तस्माइत् तस्माएवयजमानायविश्वेसिन्धवः सर्वाःस्यन्दनशीलानद्यः धुनयन्त चलयन्ति एतदभी ष्टफलसिद्भ्यर्थंप्रवहन्तीत्यर्थः तथाअच्छिद्राअच्छिद्राणि छिद्ररहितानिसन्ततानि पुरूणिबहूनिशर्मश- र्माणिसुखानिदधिरे तस्माएवधार्यन्ते यद्वा शर्मेतिगृहनाम छिद्ररहितानिबहूनि सदनानिधार्यन्ते सयजमानः सुभगः शोभनधनः देवानांसुम्ने देवैःप्रत्तेसुखेवर्तमानः सन् एधते वर्धते शिष्टंस्पष्टम् ॥ ५ ॥

ऋजुरितिचतुरृच्ंचतुर्थंसूक्तं गृत्समदस्यार्षंजागतंब्राह्मणस्पत्यम् तथाचानुक्रान्तम्-ऋजुश्चतुष्क- मिति गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः