मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २६, ऋक् १

संहिता

ऋ॒जुरिच्छंसो॑ वनवद्वनुष्य॒तो दे॑व॒यन्निददे॑वयन्तम॒भ्य॑सत् ।
सु॒प्रा॒वीरिद्व॑नवत्पृ॒त्सु दु॒ष्टरं॒ यज्वेदय॑ज्यो॒र्वि भ॑जाति॒ भोज॑नम् ॥

पदपाठः

ऋ॒जुः । इत् । शंसः॑ । व॒न॒व॒त् । व॒नु॒ष्य॒तः । दे॒व॒ऽयन् । इत् । अदे॑वऽयन्तम् । अ॒भि । अ॒स॒त् ।
सु॒प्र॒ऽअ॒वीः । इत् । व॒न॒व॒त् । पृ॒त्ऽसु । दु॒स्तर॑म् । यज्वा॑ । इत् । अयज्योः॑ । वि । भ॒जा॒ति॒ । भोज॑नम् ॥

सायणभाष्यम्

ऋजुरितिआर्जवयुक्तएव यद्वा ऋञ्चतिःप्रसाधनकर्मा स्तोत्राणांप्रसाधकएवशंसः ब्रह्मणस्पतेः स्तोता वनुष्यतोहिंसतः शत्रून्वनवत् वनुयात् हिंस्यात् वनोतेर्हन्तिकर्मणएतद्रूपम् यथा देवयन्नित् देवंदानादिगुणयुक्तंब्रह्मणस्पतिमात्मनइच्छन्नेव अदेवयन्तं तद्विपरीतंपुरुषंअभ्यसत् अभिभवेत् अस्तेर्लेट्येतद्रूपम् तथासुप्रावीरित् अवतेस्तृप्त्यर्थादौणादिकईकारप्रत्ययः सुष्ठुप्रकर्षेणब्रह्मणस्पतेस्त- र्पयितैव पृत्सुपृतनासुसङ्ग्रामेषुदुस्तरंतरीतुमशक्यंवनवत् हिंस्यात् तथायज्वेत् ब्रह्मणस्पतिंहविषा इष्टवानेव अयज्योः अयज्वनः भोजनंभोगसाधनंविभजाति विशेषेणभजेत इत्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः