मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २६, ऋक् २

संहिता

यज॑स्व वीर॒ प्र वि॑हि मनाय॒तो भ॒द्रं मनः॑ कृणुष्व वृत्र॒तूर्ये॑ ।
ह॒विष्कृ॑णुष्व सु॒भगो॒ यथास॑सि॒ ब्रह्म॑ण॒स्पते॒रव॒ आ वृ॑णीमहे ॥

पदपाठः

यज॑स्व । वी॒र॒ । प्र । वि॒हि॒ । म॒ना॒य॒तः । भ॒द्रम् । मनः॑ । कृ॒णु॒ष्व॒ । वृ॒त्र॒ऽतूर्ये॑ ।
ह॒विः । कृ॒णु॒ष्व॒ । सु॒ऽभगः॑ । यथा॑ । अस॑सि । ब्रह्म॑णः । पतेः॑ । अवः॑ । आ । वृ॒णी॒म॒हे॒ ॥

सायणभाष्यम्

ऋषिरात्मीयंपुरुषंशास्ति हेवीर विशेषेण स्तुतीनांप्रेरक सखे यजस्व ब्रह्मणस्पतिं स्तुत्यापूजय मनायतः मनइवशीघ्रंप्रवर्तमानान् हिंसकान् यद्वा अभिमन्यमानान् शत्रून्प्रति प्रविहि प्रकर्षेणयुद्धा र्थंगच्छ वीगत्यादिषु छान्दसोह्रस्वः वृत्रतूर्ये वृत्रतूर्ये वृत्राणामावरकाणां शत्रूणांहिंसहेतुभूतेसङ्ग्रा मेभद्रंकल्याणंधार्ष्ट्योपेतंमनः कृणुष्वकुरुष्व ब्रह्मणस्पतेरनुग्रहात्तवैवजयोभविष्यति तथाब्रह्मणस्प- तयेहविश्चरुपुरोडाशादिकं कृणुष्वकुरु यथात्वंसुभगः शोभनधनोअससिभवेः अस्तेर्लेट्यडागमः ब्रह्मणस्पतेर्यागेनत्वंशोभनधनोभविष्यसीतियावत् अपिच वयंब्रह्मणस्पतेरवोरक्षणंआआभिमुख्ये नवृणीमहे प्रार्थयामहे ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः