मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २६, ऋक् ३

संहिता

स इज्जने॑न॒ स वि॒शा स जन्म॑ना॒ स पु॒त्रैर्वाजं॑ भरते॒ धना॒ नृभि॑ः ।
दे॒वानां॒ यः पि॒तर॑मा॒विवा॑सति श्र॒द्धाम॑ना ह॒विषा॒ ब्रह्म॑ण॒स्पति॑म् ॥

पदपाठः

सः । इत् । जने॑न । सः । वि॒शा । सः । जन्म॑ना । सः । पु॒त्रैः । वाज॑म् । भ॒र॒ते॒ । धना॑ । नृऽभिः॑ ।
दे॒वाना॑म् । यः । पि॒तर॑म् । आ॒ऽविवा॑सति । श्र॒द्धाऽम॑नाः । ह॒विषा॑ । ब्रह्म॑णः । पति॑म् ॥

सायणभाष्यम्

योयजमानःश्रद्धामनाः श्रद्धामनसियस्यतादृशःसन् देवानांपितरं पालयितारं ब्रह्मणस्पतिं हविषाचरुपुरोडाशादिना आविवासति परिचरति विवासतिःपरिचरणकर्मा सइत् सएवयजमानः जनेनजातेनसर्वेणलोकेनवाजमन्नंभरतेबिभर्ति संभरतिवा सएवविशाप्रजया आत्मीयेनबन्धुजनेन वाजंभरते सएवजन्मना सएवपुत्रैरात्मीयैरपत्यैर्वाजंभरते तथानृभिर्नेतृभिरन्यैः परिचारकैः धना- धनानिभरते बिभर्तिसंपादयतिवा ब्रह्मणस्पतिमिष्टवतोयजमानस्यसर्वतोजनाअन्नधनयोः साध- काभवन्तीतियावत् ॥ ३ ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः