मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २६, ऋक् ४

संहिता

यो अ॑स्मै ह॒व्यैर्घृ॒तव॑द्भि॒रवि॑ध॒त्प्र तं प्रा॒चा न॑यति॒ ब्रह्म॑ण॒स्पति॑ः ।
उ॒रु॒ष्यती॒मंह॑सो॒ रक्ष॑ती रि॒षों॒३॒॑ऽहोश्चि॑दस्मा उरु॒चक्रि॒रद्भु॑तः ॥

पदपाठः

यः । अ॒स्मै॒ । ह॒व्यैः । घृ॒तव॑त्ऽभिः । अवि॑धत् । प्र । तम् । प्रा॒चा । न॒य॒ति॒ । ब्रह्म॑णः । पतिः॑ ।
उ॒रु॒ष्यति॑ । ई॒म् । अंह॑सः । रक्ष॑ति । रि॒षः । अं॒होः । चि॒त् । अ॒स्मै॒ । उ॒रु॒ऽचक्रिः॑ । अद्भु॑तः ॥

सायणभाष्यम्

योयजमानः अस्मैब्रह्मणस्पतये क्रियाग्रहणंकर्तव्यमितिकर्मणः संप्रदानत्वाच्चतुर्थी इमंब्रह्मणस्प- तिंघृतवद्भिः उपस्तरणभिघारणात्मकेनाज्येनोपेतैर्हव्यैर्हविर्भिः अविधत् परिचरति विधविधाने तौदादिकः अयंपरिचरण्कर्मसुपठितः तंयजमानं ब्रह्मणस्पतिः प्राचाप्राचीनेनऋजुनामार्गेण प्रणयति प्रकृष्टंफलंप्रापयति अपिचईमेनं अंहसःपापात् उरुष्यतिरक्षति उरुष्यतीरक्षाकर्मेतियास्कः । तथारि- षोर्हिंसकादेनंरक्षति अंहोश्चित् अवृत्तेर्दारिद्भ्यात् यद्वा आगत्यहंतुरपिरक्षति अपिचास्मै यजमानाया- अद्भुतः महन्नामैतत् आचार्यभूतोमहान्ब्रह्मणस्पतिः उरुचक्रिः उरोर्विस्तीर्णस्योपकारस्यकर्ताभवति ॥ ४ ॥

इमागिरइतिसप्तदशर्चंपञ्चमंसूक्तम् गृत्समदपुत्रस्यकूर्मस्यार्षं गृत्समदस्यैववात्रैष्टुभमादित्यदेवता कम् तथाचानुक्रान्तम्—इमागिरस्त्रयूनाकूर्मोगार्त्समदोहिवादित्यमिति सूक्तविनियोगोलैङ्गिकः आदित्यदेवताकेपशौपुरोडाशस्यइमागिरइत्येकानुवाक्या अग्नीषोमावितिखण्डेसूत्रितम्—इमागिर आदित्येभ्योघृतस्नूस्तआदित्यासउरवोगभीराइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः