मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३०, ऋक् १

संहिता

ऋ॒तं दे॒वाय॑ कृण्व॒ते स॑वि॒त्र इन्द्रा॑याहि॒घ्ने न र॑मन्त॒ आपः॑ ।
अह॑रहर्यात्य॒क्तुर॒पां किया॒त्या प्र॑थ॒मः सर्ग॑ आसाम् ॥

पदपाठः

ऋ॒तम् । दे॒वाय॑ । कृ॒ण्व॒ते । स॒वि॒त्रे । इन्द्रा॑य । अ॒हि॒ऽघ्ने । न । र॒म॒न्ते॒ । आपः॑ ।
अहः॑ऽअहः । या॒ति॒ । अ॒क्तुः । अ॒पाम् । किय॑ति । आ । प्र॒थ॒मः । सर्गः॑ । आ॒सा॒म् ॥

सायणभाष्यम्

ऋतमुदकंवृष्टिलक्षणंकृण्वतेकुर्वतेदेवायद्योतमानायसवित्रेसर्वस्यप्रेरकायअहिघ्रेअहिंवृत्रं हतवते- इन्द्राययागार्थम् आपोनरमन्ते तस्माद्धेतोर्भीत्यानोपरताभवंति तस्मात् व्यत्ययेनचतुर्थी अपितुता- सामपांअप्तुः सेचकंस्रोतः अहरहः प्रत्यहंयातिगच्छति आसांप्रथमःसर्गः प्राथमिकंजन्म कियात्या- कियतिकालेनिष्पन्नं आकारःप्रश्ने किंशब्दआक्षेपे यावतिकालेताअजायन्तसकालः कियान् किंपरि- माणंतस्यकालस्य नकिमपिनित्याएवहिताइत्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२