मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३०, ऋक् २

संहिता

यो वृ॒त्राय॒ सिन॒मत्राभ॑रिष्य॒त्प्र तं जनि॑त्री वि॒दुष॑ उवाच ।
प॒थो रद॑न्ती॒रनु॒ जोष॑मस्मै दि॒वेदि॑वे॒ धुन॑यो य॒न्त्यर्थ॑म् ॥

पदपाठः

यः । वृ॒त्राय॑ । सिन॑म् । अत्र॑ । अभ॑रिष्यत् । प्र । तम् । जनि॑त्री । वि॒दुषे॑ । उ॒वा॒च॒ ।
प॒थः । रद॑न्तीः । अनु॑ । जोष॑म् । अ॒स्मै॒ । दि॒वेऽदि॑वे । धुन॑यः । य॒न्ति॒ । अर्थ॑म् ॥

सायणभाष्यम्

यःपुरुषोवृत्रायासुरायसिनमन्नंअत्रपाकस्थाने आहर्तुमभरिष्यत् संपादितवान् तंपुरुषंजनित्री जनयित्रीइन्द्रस्यमाताअदितिः विदुषेआअभिज्ञायेन्द्रायप्रोवाच प्रोक्तवटी प्रवचनस्यहननार्थत्वात् तंवृत्रंहतवानितिशेषः अपिचास्मैअस्येन्द्रस्यानुजोषमनुकामंइच्छामनुसृत्यपथोमार्गान् रदन्ती र्तिलिखन्त्योधुनयोनद्यः दिवेदिवेप्रतिदिवसंअर्थंर्तव्यंगन्तव्यं समुद्रंप्रतियंतिगच्छन्ति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२