मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३०, ऋक् ३

संहिता

ऊ॒र्ध्वो ह्यस्था॒दध्य॒न्तरि॒क्षेऽधा॑ वृ॒त्राय॒ प्र व॒धं ज॑भार ।
मिहं॒ वसा॑न॒ उप॒ हीमदु॑द्रोत्ति॒ग्मायु॑धो अजय॒च्छत्रु॒मिन्द्र॑ः ॥

पदपाठः

ऊ॒र्ध्वः । हि । अस्था॑त् । अधि॑ । अ॒न्तरि॑क्षे । अध॑ । वृ॒त्राय॑ । प्र । व॒धम् । ज॒भा॒र॒ ।
मिह॑म् । वसा॑नः । उप॑ । हि । ई॒म् । अदु॑द्रोत् । ति॒ग्मऽआ॑युधः । अ॒ज॒य॒त् । शत्रु॑म् । इन्द्रः॑ ॥

सायणभाष्यम्

हेर्हेतो यम्सदयंवृत्रः अन्तरिक्षेऊर्ध्वःस्न् सर्वमावृत्याध्यस्थात् अधिष्ठतोभूत् अधअत्ःकारणात् वृत्रायवृत्रंप्रतिवर्धंहननसाधनं वज्रंइन्द्रः प्रजभार प्रचिक्षेप हृग्रहोर्भः सहिखलुवृत्रोमिहंवृष्टेः सेक्तारंमेघंवसानः आच्छादयत् ईमेनमिन्द्रंउपादुद्रोत् उपागमत् दुद्रुगतौ लङिछान्दसः शपः श्लुः तिग्मायुधः तीक्ष्णायुधः इन्द्रः शत्रुंशातयितारंतंवृत्रंअजयत् जितवान् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२