मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३०, ऋक् ४

संहिता

बृह॑स्पते॒ तपु॒षाश्ने॑व विध्य॒ वृक॑द्वरसो॒ असु॑रस्य वी॒रान् ।
यथा॑ ज॒घन्थ॑ धृष॒ता पु॒रा चि॑दे॒वा ज॑हि॒ शत्रु॑म॒स्माक॑मिन्द्र ॥

पदपाठः

बृह॑स्पते । तपु॑षा । अश्ना॑ऽइव । वि॒ध्य॒ । वृक॑ऽद्वरसः । असु॑रस्य । वी॒रान् ।
यथा॑ । ज॒घन्थ॑ । धृ॒ष॒ता । पु॒रा । चि॒त् । ए॒व । ज॒हि॒ । शत्रु॑म् । अ॒स्माक॑म् । इ॒न्द्र॒ ॥

सायणभाष्यम्

हेबृहस्पते बृहतांपरिवृढानांपालयितरिन्द्र तपुषातापकेनदीप्तेनवज्रेणअश्नेवअशन्याइव वृक द्वरसः संवृतद्वारस्यासुरस्यवीरान्पुत्रान् यद्वा संवृतद्वारान् असुरस्यवीरन् विध्य ताडय वृणोतेः सृवृभूषिमुषिभ्यः किदितिकर्मणिकन्प्रत्ययः द्रुगतौ अस्मादौणादिकोऽसन्प्रत्ययः वृकाणि संवृतानि द्वरांसि द्वाराणियेषां बहुव्रीहौपूर्वपदप्रकृतिस्वर्त्वम् हेइन्द्र पुराचित् पुरापिधृषता धर्षकेणवज्रेण- यथाजघन्थ त्वंहतवानेव एवमेवास्माकंशत्रुंजहि नाशय हन्तेर्जइतिर्होजादेशः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२