मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३०, ऋक् ५

संहिता

अव॑ क्षिप दि॒वो अश्मा॑नमु॒च्चा येन॒ शत्रुं॑ मन्दसा॒नो नि॒जूर्वा॑ः ।
तो॒कस्य॑ सा॒तौ तन॑यस्य॒ भूरे॑र॒स्माँ अ॒र्धं कृ॑णुतादिन्द्र॒ गोना॑म् ॥

पदपाठः

अव॑ । क्षि॒प॒ । दि॒वः । अश्मा॑नम् । उ॒च्चा । येन॑ । शत्रु॑म् । म॒न्द॒सा॒नः । नि॒ऽजूर्वाः॑ ।
तो॒कस्य॑ । सा॒तौ । तन॑यस्य । भूरेः॑ । अ॒स्मान् । अ॒र्धम् । कृ॒णु॒ता॒त् । इ॒न्द्र॒ । गोना॑म् ॥

सायणभाष्यम्

हेइन्द्र दिवोनभसः सकाशादश्मानं अश्मवत्कठिनं वज्रंउच्चाउच्चैर्वर्तमानस्त्वंअवक्षिपअस्मदीयान् शत्रूणुद्दिश्यावस्तात् क्षिप येनवज्रेणामन्दसानः स्तोतृभिःस्तूयमानःसन् शत्रुंनिजूर्वाः न्यहिंसीः जुवीं- र्हिंसार्थः लेट्याडागमः तथातोकस्यपुत्रस्यभूरेर्भर्तव्यस्यपौत्रस्यसातौ संभजने निमित्ते सप्तम्येषासं भजनार्थ तथाहेइन्द्र गोनांगवांसंभजनार्थंचास्मान् अस्माकं विभक्तिव्यत्ययः अर्धं समृद्धिंकृणुतात्कुरु गोःपादान्तेइतिगोशब्दस्यामोनुडागमः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२