मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३०, ऋक् ६

संहिता

प्र हि क्रतुं॑ वृ॒हथो॒ यं व॑नु॒थो र॒ध्रस्य॑ स्थो॒ यज॑मानस्य चो॒दौ ।
इन्द्रा॑सोमा यु॒वम॒स्माँ अ॑विष्टम॒स्मिन्भ॒यस्थे॑ कृणुतमु लो॒कम् ॥

पदपाठः

प्र । हि । क्रतु॑म् । वृ॒हथः॑ । यम् । व॒नु॒थः । र॒ध्रस्य॑ । स्थः॒ । यज॑मानस्य । चो॒दौ ।
इन्द्रा॑सोमा । यु॒वम् । अ॒स्मान् । अ॒वि॒ष्ट॒म् । अ॒स्मिन् । भ॒यऽस्थे॑ । कृ॒णु॒त॒म् । ऊं॒ इति॑ । लो॒कम् ॥

सायणभाष्यम्

हेइन्द्रासोमा इन्द्रासोमौ यंवैरिणंवनुथोहिंसथः वनुष्यतिर्हन्तिकर्मेतियास्कः । तंक्रतुंद्वेषस्यकर्तारं- प्रहिवृहथः प्रकर्षेणोद्यच्छथःखलु उन्मूलयथइत्यर्थः वृहूउद्यमने तौदादिकः तथारध्रस्यराधकस्ययज- मानस्यचोदौशत्रूणांप्रेरकौस्थोभवथः तथा हेइन्द्रासोमौ युवंयुवांअस्मान् अविष्टमवतं अस्मिन्भयस्थे भयस्थानेयुद्धे घञर्थेकविधानमित्यधिकरणेकप्रत्ययः मरुद्वृधादित्वात्पूर्वपदान्तोदात्तत्वम् लोकंभ- यरहितंस्थानंकृणुतंकुरुतम् उइतिपदपूरणः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३