मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३०, ऋक् ७

संहिता

न मा॑ तम॒न्न श्र॑म॒न्नोत त॑न्द्र॒न्न वो॑चाम॒ मा सु॑नो॒तेति॒ सोम॑म् ।
यो मे॑ पृ॒णाद्यो दद॒द्यो नि॒बोधा॒द्यो मा॑ सु॒न्वन्त॒मुप॒ गोभि॒राय॑त् ॥

पदपाठः

न । मा॒ । त॒म॒त् । न । श्र॒म॒त् । न । उ॒त । त॒न्द्र॒त् । न । वो॒चा॒म॒ । मा । सु॒नो॒त॒ । इति॑ । सोम॑म् ।
यः । मे॒ । पृ॒णात् । यः । दद॑त् । यः । नि॒ऽबोधा॑त् । यः । मा॒ । सु॒न्वन्त॑म् । उप॑ । गोभिः॑ । आ । अय॑त् ॥

सायणभाष्यम्

सइन्द्रोमामांनतमत् नतमयतुनग्लपयतु तथानश्रमत् श्रान्तंमाकरोतु तमुग्लाने श्रमुतपसिखेदेच अनयोर्हेतुमण्ण्यन्तयोर्लेट्यडागमः छन्दस्युभयथेतिशपआर्धधातुकत्वाण्णोरनिटितिणिलोपः उत- अपिचमांनतन्द्रत् नतन्द्रयेत् तन्द्भ्याआलस्येनयुक्तंमाकरोतु तन्द्रीशब्दात्तत्करोतीतिणिच् णाविष्ठ- वत्प्रातिपदिकस्येतिटिलोपः अन्यत्पूर्ववत् इन्द्र यागायसोमंमासुनोत माभिषुणुतेति अन्यान्यजमा- नान् प्रतिनवोचाम नब्रवाम वक्तेश्छान्दसोलुङ् सुनोतेत्यत्र त् प्तनप्तनथनाश्चेति तस्यतबादेशः तस्य- पित्त्वेनङित्त्वाभावाद्गुणः यइन्द्रोमेममपृणात् कामान्पूरयेत् यश्चददत् अभीष्टंफलंदद्यात् यश्चनिबो- धात् अस्मदीयंस्तोत्रंयागंवाअवगच्छेत् यइन्द्रः सुन्वन्तंसोममभिषुण्वन्तं मामांअस्मभ्यंदातव्यैर्गो- भिः सहउपायत् उपागच्छेप् सइन्द्रइतिपूर्वत्रान्वयः प्रुणादित्यादिषुलेट्याडागमः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३