सर॑स्वति॒ त्वम॒स्माँ अ॑विड्ढि म॒रुत्व॑ती धृष॒ती जे॑षि॒ शत्रू॑न् ।
त्यं चि॒च्छर्ध॑न्तं तविषी॒यमा॑ण॒मिन्द्रो॑ हन्ति वृष॒भं शण्डि॑कानाम् ॥
सर॑स्वति । त्वम् । अ॒स्मान् । अ॒वि॒ड्ढि॒ । म॒रुत्व॑ती । धृ॒ष॒ती । जे॒षि॒ । शत्रू॑न् ।
त्यम् । चि॒त् । शर्ध॑न्तम् । त॒वि॒षी॒ऽयमा॑णम् । इन्द्रः॑ । ह॒न्ति॒ । वृ॒ष॒भम् । शण्डि॑कानाम् ॥
हेसरस्वति सरणवतिदेवि त्वंअस्मान् स्तोतॄन् अविड्वि रक्ष रक्षार्थस्यावतेर्लेट्येतद्रूपम् तथा- मरुत्वतीमरुद्भिर्युक्ताम ध्यमस्थानाहिवाक् सरस्वतीमरुतश्चमध्यमस्थानस्थाः अतस्तद्वतीसती धृषतीधर्षयन्तीश्त्रून् शातयितॄन्वैरिणोजेषिजय जयतेश्छान्दसःशपःश्लुः किञ्चायमिन्द्रः त्यंचित् तमप्यसुरंहन्तिहतवान् व्यत्ययेनभूतार्थेलट् कीदृशं शधंन्तं प्रसहनशीलं श्रृधुप्रसहने तविषीयमा- णंतविषीबलमिवाचरन्तं सर्वस्यभंजनेशक्तं शण्डिकानां शण्डामर्कावसुरपुरोहितौ शण्डवंश्या- नांमध्येवृषभंप्रधानम् ॥ ८ ॥