मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३०, ऋक् ९

संहिता

यो न॒ः सनु॑त्य उ॒त वा॑ जिघ॒त्नुर॑भि॒ख्याय॒ तं ति॑गि॒तेन॑ विध्य ।
बृह॑स्पत॒ आयु॑धैर्जेषि॒ शत्रू॑न्द्रु॒हे रीष॑न्तं॒ परि॑ धेहि राजन् ॥

पदपाठः

यः । नः॒ । सनु॑त्यः । उ॒त । वा॒ । जि॒घ॒त्नुः । अ॒भि॒ऽख्याय॑ । तम् । ति॒गि॒तेन॑ । वि॒ध्य॒ ।
बृह॑स्पते । आयु॑धैः । जे॒षि॒ । शत्रू॑न् । द्रु॒हे । रिष॑न्तम् । परि॑ । धे॒हि॒ । रा॒ज॒न् ॥

सायणभाष्यम्

हेबृहस्पते योनोस्माकंसनुत्यः सनुतरित्यंतर्हितनाम अन्तर्हितेदेशेभवश्चोरः सगर्भसयूथस- नुताद्यत् उतवाअपिवा योजिघत्नुर्जिघांसुर्भवति तमभिख्यायसंवीक्ष्यतिगितेनतीक्ष्णेनायुधेनवि- ध्यताडय यथास्मदीयान् शात्रून् आयुधैरायोधनसाधनैरिष्वादिभिर्जेषिजय तथा हेराजन् रा- जमानबृहस्पते द्रुहेद्रोग्ध्रेशत्रवेरिषन्तंहिंसन्तंवज्रं परिधेहि परितोधारय प्रक्षिपेत्यर्थः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३