मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३०, ऋक् १०

संहिता

अ॒स्माके॑भि॒ः सत्व॑भिः शूर॒ शूरै॑र्वी॒र्या॑ कृधि॒ यानि॑ ते॒ कर्त्वा॑नि ।
ज्योग॑भूव॒न्ननु॑धूपितासो ह॒त्वी तेषा॒मा भ॑रा नो॒ वसू॑नि ॥

पदपाठः

अ॒स्माके॑भिः । सत्व॑ऽभिः । शू॒र॒ । शूरैः॑ । वी॒र्या॑ । कृ॒धि॒ । यानि॑ । ते॒ । कर्त्वा॑नि ।
ज्योक् । अ॒भू॒व॒न् । अनु॑ऽधूपितासः । ह॒त्वी । तेषा॑म् । आ । भ॒र॒ । नः॒ । वसू॑नि ॥

सायणभाष्यम्

हेशूर शौर्यवन्निन्द्र अस्माकेभिरास्माकीनैः सत्वभिः परेषांसादकैः शूरैः शौर्योपेतैर्भटैः तानिवीर्या वीर्याणि वीरकर्माणिकृधिकुरु यानितेत्वयाकर्त्वानिकरणीयानि कृत्यार्थेतवैकेनि- तिकरोतेस्त्वन् प्रत्ययः ज्योक् चिरकालंअनुधूपितासः धूपायमानाहृदयामदीयाः शत्रवोभूव- न्नासन् हत्वीतान् हत्वा स्नात्व्यादयश्चेतीकारः तेषांशत्रूणां वसूनिधनानिनोस्मभ्यंआभर आहर ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३