मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३०, ऋक् ११

संहिता

तं व॒ः शर्धं॒ मारु॑तं सुम्न॒युर्गि॒रोप॑ ब्रुवे॒ नम॑सा॒ दैव्यं॒ जन॑म् ।
यथा॑ र॒यिं सर्व॑वीरं॒ नशा॑महा अपत्य॒साचं॒ श्रुत्यं॑ दि॒वेदि॑वे ॥

पदपाठः

तम् । वः॒ । शर्ध॑म् । मारु॑तम् । सु॒म्न॒ऽयुः । गि॒रा । उप॑ । ब्रु॒वे॒ । नम॑सा । दैव्य॑म् । जन॑म् ।
यथा॑ । र॒यिम् । सर्व॑ऽवीरम् । नशा॑महै । अ॒प॒त्य॒ऽसाच॑म् । श्रुत्य॑म् । दि॒वेऽदि॑वे ॥

सायणभाष्यम्

हेमरुतः वोयुष्माकंशर्धं बलंमारुतंमरुत्समूहरूपंदैव्यंदेवेनेन्द्रेण संबद्धंजनं प्रादुर्भूतंएवं गुणबि- शिष्टंतंबलं नमसानमस्कारेणहविषावागिरास्तोत्रेण सुम्नयुः सुखेच्छुरहंउपब्रुवेस्तौमि यथा येनप्र- कारेणवयंसर्ववीरंसर्वैः वीरैर्विशेषेणशत्रूणांप्रेरकैर्भटैरुपेतं अपत्यसाचंअपत्यैरपतनहेतुभूतैः पुत्रादि- भिरुपेतं श्रुत्यंश्रवणीयंप्रशस्यभूतं रयिंदिवेदिवेप्रतिदिवसंनशामहै व्याप्नवाम नशतिर्व्याप्तिकर्मा लेट्याडागमः वैतोन्यत्रेत्यैकारः ॥ ११ ॥

अस्मकमितिसप्तर्चंन्व्मंसुक्तम् गृत्समदस्यार्षंवैश्वदेवं अन्त्यात्रिष्टुप् शिष्टाजगत्यः तथाचानुक्रा- न्तम्—अस्माकंसप्तवैश्वदेवंत्रिष्टुबन्तमिति विनियोगोलैङ्गिकः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३