मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३१, ऋक् १

संहिता

अ॒स्माकं॑ मित्रावरुणावतं॒ रथ॑मादि॒त्यै रु॒द्रैर्वसु॑भिः सचा॒भुवा॑ ।
प्र यद्वयो॒ न पप्त॒न्वस्म॑न॒स्परि॑ श्रव॒स्यवो॒ हृषी॑वन्तो वन॒र्षदः॑ ॥

पदपाठः

अ॒स्माक॑म् । मि॒त्रा॒व॒रु॒णा॒ । अ॒व॒त॒म् । रथ॑म् । आ॒दि॒त्यैः । रु॒द्रैः । वसु॑ऽभिः । स॒चा॒ऽभुवा॑ ।
प्र । यत् । वयः॑ । न । पप्त॑न् । वस्म॑नः । परि॑ । श्र॒व॒स्यवः॑ । हृषी॑वन्तः । व॒न॒ऽसदः॑ ॥

सायणभाष्यम्

मित्रावरुणा हेमित्रावरुणौ आदित्यैः धात्रर्यमादिभिर्द्वादशभिः रुद्रैः एकादशसंख्याकैः वसु- भिः धरोध्रुवइत्यादिभिरष्टसंख्याकैः एवंत्रिभिर्देवगणैः सचाभुवासहभवन्तौसहवर्तमानौयुवां अ- स्माकं रथंअन्नलाभाय प्रवृत्तंअबतम् यद्यदास्मदीयारथाः वस्मनः परिवसन्त्यस्मिन्नितिवस्मनिवा- सस्थानं औणादिकोमनिन् तस्मात् स्थानात् परिउपरिदेशान्तरे पञ्चम्याःपरावध्यर्थेइतिसत्वम् अध्यर्थउपर्यर्थइतिवृत्तिः वयोन पक्षिणइव प्रपप्तन् प्रपतन्ति प्रकर्षेणगच्छन्ति पतेश्छान्दसेलुङि ऌदित्वात् च्लेरङादेशः पतःपुमितिपुमागमः कीदृशावयः श्रवस्यवोन्नकामाः हृषीवन्तः प्राप्त- हर्षाः वनर्षदः वनेवृक्षादौनिषण्णाः सांहितिकश्छान्दसोरेफोपजनः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४