मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३१, ऋक् २

संहिता

अध॑ स्मा न॒ उद॑वता सजोषसो॒ रथं॑ देवासो अ॒भि वि॒क्षु वा॑ज॒युम् ।
यदा॒शव॒ः पद्या॑भि॒स्तित्र॑तो॒ रजः॑ पृथि॒व्याः सानौ॒ जङ्घ॑नन्त पा॒णिभि॑ः ॥

पदपाठः

अध॑ । स्म॒ । नः॒ । उत् । अ॒व॒त॒ । स॒ऽजो॒ष॒सः॒ । रथ॑म् । दे॒वा॒सः॒ । अ॒भि । वि॒क्षु । वा॒ज॒ऽयुम् ।
यत् । आ॒शवः॑ । पद्या॑भिः । तित्र॑तः । रजः॑ । पृ॒थि॒व्याः । सानौ॑ । जङ्घ॑नन्त । पा॒णिऽभिः॑ ॥

सायणभाष्यम्

हेसजोषसः समानंप्रीयमाणाःक् देवासोदेवाः अधअधुनानोस्माकंवाजयुं वाजमन्नंकामयमानं गतिविशेषयुक्तंवारथं विक्षुप्रजासुजनपदेषु अभिअभिमुखंउदवतउदगमयत अवतिरत्रगत्यर्थः स्मे- तिपूरणः यद्यदास्मिन् रथेयुक्ताः आशवोव्यापनशीलाअश्वाः पद्याभिः पादसाध्याभिः गतिभिः रजोरञ्चकंमार्गतित्रतः तरन्तः तरतेःशतरि बहुलंछन्दसीतिशपःश्लुः बहुलंछन्द्सीत्यभ्यासस्यत्वम् अभ्यस्तानामादिरित्याद्युदात्तत्वम् पृथिव्याःप्रथितायाः भूमेः सानौसमुच्छ्रितेप्रदेशेपाणिभिः पाण्यु पलक्षितैः पादैः जघनन्त अत्यर्थंगच्छन्ति हन्तेर्यङ्लुगन्ताच्छान्दसोलङ् व्यत्ययेनात्मनेपदम् बहु- लंछन्दसीतिशपोलुगभावः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४