मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३१, ऋक् ३

संहिता

उ॒त स्य न॒ इन्द्रो॑ वि॒श्वच॑र्षणिर्दि॒वः शर्धे॑न॒ मारु॑तेन सु॒क्रतु॑ः ।
अनु॒ नु स्था॑त्यवृ॒काभि॑रू॒तिभी॒ रथं॑ म॒हे स॒नये॒ वाज॑सातये ॥

पदपाठः

उ॒त । स्यः । नः॒ । इन्द्रः॑ । वि॒श्वऽच॑र्षणिः । दि॒वः । शर्धे॑न । मारु॑तेन । सु॒ऽक्रतुः॑ ।
अनु॑ । नु । स्था॒ति॒ । अ॒वृ॒काभिः॑ । ऊ॒तिऽभिः॑ । रथ॑म् । म॒हे । स॒नये॑ । वाज॑ऽसातये ॥

सायणभाष्यम्

उतअपिचविश्वस्यचर्षणिः विश्वस्यसर्वस्यद्रष्टा यद्वा विश्वेचर्षणयोमनुष्यायस्यपरिचारकाः अथवाविश्वेसर्वेलोकाः चर्षणयोद्रष्टव्यायेन बहुव्रीहौविश्वंसंज्ञायामितिपूर्वपदान्तोदात्तत्वम् मा- रुतेनमरुत्समूहरूपेणशर्धेनबलेनसहसुक्रतुः शोभनकर्माशोभनप्रज्ञोवा स्यःसइन्द्रः अवृकाभिः हिं- सकरहिताभिः ऊतिभीरक्षाभिःसहितःसन् दिवोद्युलोकादागत्यनुअद्यनोस्माकंरथंअनुस्थातिआनु- गुण्येनाधितिष्ठतु छान्दसःशपोलुक् किमर्थं महे सनये महतेधनाय तथावाजसातये वाजस्यान्नस्य सातयेसंभजनार्थम् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४