मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३१, ऋक् ५

संहिता

उ॒त त्ये दे॒वी सु॒भगे॑ मिथू॒दृशो॒षासा॒नक्ता॒ जग॑तामपी॒जुवा॑ ।
स्तु॒षे यद्वां॑ पृथिवि॒ नव्य॑सा॒ वचः॑ स्था॒तुश्च॒ वय॒स्त्रिव॑या उप॒स्तिरे॑ ॥

पदपाठः

उ॒त । त्ये इति॑ । दे॒वी इति॑ । सु॒भगे॒ इति॑ सु॒ऽभगे॑ । मि॒थु॒ऽदृशा॑ । उ॒षसा॒नक्ता॑ । जग॑ताम् । अ॒पि॒ऽजुवा॑ ।
स्तु॒षे । यत् । वा॒म् । पृ॒थि॒वि॒ । नव्य॑सा । वचः॑ । स्था॒तुः । च॒ । वयः॑ । त्रिऽव॑याः । उ॒प॒ऽस्तिरे॑ ॥

सायणभाष्यम्

उतअपिच त्ये तेप्रसिद्धे देवी देव्यौ देवनशीले सुभगेशोभनधनेमिथूद्रुशा मिथः परस्परंपश्य- न्त्यौ एवंभूतेउषासानक्ता उषाश्चरात्रिश्च जगतांजङ्गानांअपीजुवाप्रेरयित्र्यौभवतः तस्मादस्मदी- यमपिरथंप्रेरयताम् उत्तरोर्धर्चोद्यावापृथिव्यःप्रत्यक्षकृतः हेपृथिवि वांयुवां त्वांदिवंच नव्यसा नवीयसानवतरेणप्रशस्येनवा वचः वचसा सुपांसुलुगितितृतीयायालुक् यद्यदास्तुषेस्तुवे उत्तम- स्यव्यत्ययेनमध्यमः तदानींस्थातुः स्थावरस्यव्रीह्यादेः सबन्धिवयोन्नंचरुपुरोडाशादिलक्षणं त्रिव- याः वयइत्यन्ननाम त्रीणिओषधिपशुसोमात्मकानि हविर्लक्षणान्यन्नानियस्यतादृशोहंउपस्तिरे उपस्तृणामिआज्येनोपस्तरणाभिघारणपूर्वकंप्रयच्छामीत्यर्थः स्तृञ् आच्छान्दने लट्युत्तमे छान्द सोविकरणस्यलुक् अत्रत्यश्चशब्दश्चणितिनिपातान्तरंपादपूरणम् ऋतइद्धातोरितीत्वं निपातै- र्यद्यदिहन्ते तिनिघातप्रतिषेधः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४