मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३१, ऋक् ६

संहिता

उ॒त व॒ः शंस॑मु॒शिजा॑मिव श्म॒स्यहि॑र्बु॒ध्न्यो॒३॒॑ऽज एक॑पादु॒त ।
त्रि॒त ऋ॑भु॒क्षाः स॑वि॒ता चनो॑ दधे॒ऽपां नपा॑दाशु॒हेमा॑ धि॒या शमि॑ ॥

पदपाठः

उ॒त । वः॒ । शंस॑म् । उ॒शिजा॑म्ऽइव । श्म॒सि॒ । अहिः॑ । बु॒ध्न्यः॑ । अ॒जः । एक॑ऽपात् । उ॒त ।
त्रि॒तः । ऋ॒भु॒क्षाः । स॒वि॒ता । चनः॑ । द॒धे॒ । अ॒पाम् । नपा॑त् । आ॒शु॒ऽहेमा॑ । धि॒या । शमि॑ ॥

सायणभाष्यम्

उतअपिच हेदेवाः उशिजामिव इवेतिसंप्रत्यर्थीयः अस्मात्तः स्तुतिं कामयमानानांवोयुष्मा- कंशंसंस्तुतिंसंप्रतिश्मसि उश्मसि कामयामहे वशकान्तौ इदन्तोमसिः ग्रहिज्यादिनासम्प्रसारणम् छान्दसोवर्णलोपः उतअपिच अहिर्बुध्यः बुध्रमन्तरिक्षम् तत्रभवोऽहिनामादेवः अजएकपात् न- जायतइत्यजः एकएवपद्यतेगच्छतीत्येकपात् अजएकपात् संज्ञकः सूर्यः त्रितस्तीर्णतमः ऋभुक्षाः उरुक्षयः उरुनिवासः ऋभूणांनिवासयितावा इन्द्रश्चसवितासर्वस्यप्रसविताचनोन्नंदधे विदधातु अस्मभ्यंकरोतु तथा आशुहेमाशीघ्रगामी हिगतावित्यस्मादन्येभ्योपिदृश्यन्तइतिमनिन् तादृशः अपांनपात् अपांपौत्रीयस्थानीयोग्निः अद्भ्यओषधिवनस्पतयोजायन्ते ओषधिवनस्यतिभ्यश्चायम- ग्निर्जायते इत्यग्नेरपांपौत्रत्वम् सचधियास्तुत्याशमि शमीतिकर्मनाम यज्ञकर्मणिप्रीतोभवत्विति- शेषः यद्वा धियाकर्मणाअस्मदीयेनपरिचरणलक्षणेनशमि शंसुखंतन्निमित्तंभवत्वितिशेषः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४