मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३२, ऋक् २

संहिता

मा नो॒ गुह्या॒ रिप॑ आ॒योरह॑न्दभ॒न्मा न॑ आ॒भ्यो री॑रधो दु॒च्छुना॑भ्यः ।
मा नो॒ वि यौ॑ः स॒ख्या वि॒द्धि तस्य॑ नः सुम्नाय॒ता मन॑सा॒ तत्त्वे॑महे ॥

पदपाठः

मा । नः॒ । गुह्याः॑ । रिपः॑ । आ॒योः । अह॑न् । द॒भ॒न् । मा । नः॒ । आ॒भ्यः । री॒र॒धः॒ । दु॒च्छुना॑भ्यः ।
मा । नः॒ । वि । यौः॒ । स॒ख्या । वि॒द्धि । तस्य॑ । नः॒ । सु॒म्न॒ऽय॒ता । मन॑सा । तत् । त्वा॒ । ई॒म॒हे॒ ॥

सायणभाष्यम्

हेइन्द्रत्वष्टर्वा आयोर्मनुष्यस्यशत्रुभूतस्यगुह्याः गोप्याः ज्ञातुमशक्याः रिपोहिंसारूपाः मायाः नोस्मान् अहन् उपलक्षणमेतत् अहनिरात्रौचमादभन् माहिंसिषुः तथानोस्मान् आभ्योदुच्छुनाभ्यः शुनमितिसुखनाम दुःशुनादुच्छुनाः दुःखकारिणीभ्यः शत्रुस्मान्मारीरधः वशंमानैषीः रध्यतिर्वश- गनइतियास्कः । रधहिंसासंराध्योः अस्माण्ण्यन्ताल्लुङिचङिरूपम् अपिच नोस्माकंस्ख्या सख्या- निसखित्वानिमावियौः त्वयावियुक्तानिमाकार्षीः अपितुनोस्माकंतस्यतत् सखीत्वंसुम्नायता सुख- मस्माकमिच्छतामनसाविद्धिजानीहि क्रियाग्रहणंकर्तव्यमितिकर्मणः संप्रदानत्वाच्चतुर्थ्यर्थेषष्ठी तत् त्वा तादृशंत्वां ईमहे अभिमतफलंयाचामहे सुपांसुलुगितितच्छब्दादुत्तरस्याविभक्तेर्लुक् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५