मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३२, ऋक् ४

संहिता

रा॒काम॒हं सु॒हवां॑ सुष्टु॒ती हु॑वे शृ॒णोतु॑ नः सु॒भगा॒ बोध॑तु॒ त्मना॑ ।
सीव्य॒त्वपः॑ सू॒च्याच्छि॑द्यमानया॒ ददा॑तु वी॒रं श॒तदा॑यमु॒क्थ्य॑म् ॥

पदपाठः

रा॒काम् । अ॒हम् । सु॒ऽहवा॑म् । सु॒ऽस्तु॒ती । हु॒वे॒ । शृ॒णोतु॑ । नः॒ । सु॒ऽभगा॑ । बोध॑तु । त्मना॑ ।
सीव्य॑तु । अपः॑ । सू॒च्या । अच्छि॑द्यमानया । ददा॑तु । वी॒रम् । श॒तऽदा॑यम् । उ॒क्थ्य॑म् ॥

सायणभाष्यम्

संपूर्णचन्द्रापौर्णमासीराका तांदेवींसुहवां स्वाह्वानां आह्वानप्रयोजनकारिणींसुष्टुतीशोभन- यास्तुत्याअहंहुवेआह्वयामि सुष्टुतिशब्दात्तृतीयैकवचनस्यसुपांसुलुगितिपूर्वसवर्णईकारः साच सुबगाशोभनधनानोस्माकमाह्वनंशृणोतु श्रुत्वाचत्मनाआत्मनास्वयमेवबोधतु अस्मदभिप्रायं बुध्यतां बुध्वाच अपः कर्म पुत्रोत्पादनलक्षणंसूच्यासूचीस्थानीययाअच्छिद्यमानयाअवच्छिन्न- यानुग्रहबुद्ध्यासीव्यतु संतनोतु यथावस्त्रादिकंसूच्यास्यूतंचिरंतिष्ठति एवमिदंकरोतु कृत्वाच वीरंविक्रांतं शतदायं बहुधनंबहुप्रदंवाउक्थ्यंप्रशस्यंपुत्रंददातु ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५