मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३२, ऋक् ५

संहिता

यास्ते॑ राके सुम॒तयः॑ सु॒पेश॑सो॒ याभि॒र्ददा॑सि दा॒शुषे॒ वसू॑नि ।
ताभि॑र्नो अ॒द्य सु॒मना॑ उ॒पाग॑हि सहस्रपो॒षं सु॑भगे॒ ररा॑णा ॥

पदपाठः

याः । ते॒ । रा॒के॒ । सु॒ऽम॒तयः॑ । सु॒ऽपेश॑सः । याभिः॑ । ददा॑सि । दा॒शुषे॑ । वसू॑नि ।
ताभिः॑ । नः॒ । अ॒द्य । सु॒ऽमनाः॑ । उ॒प॒ऽआग॑हि । स॒ह॒स्र॒ऽपो॒षम् । सु॒ऽभ॒गे॒ । ररा॑णा ॥

सायणभाष्यम्

हेराकेदेवि सुपेशसः शोभनरूपास्तेतवयाःसुमतयः शोभनबुद्धयः याभिर्मतिभिः दाशुषेहवि- र्दत्तवतेयजमानायसूनिधनानिददासि प्रयच्छसि अद्येदानींताभिर्मतिभिः सहितात्वंसुमनाः शोभनमनाभूत्वानोस्मान् उपागहि उपागच्छ गमेश्छान्दसः शपोलुक् अनुदात्तोपदेशेत्यादि- नानुनासिकलोपः असिद्धवदत्राभादित्यस्यासिद्धत्वाद्धेर्लुगभावः किंकुर्वती हेसुभगेसोभनधने सहस्रपोषंसहस्रसंख्याकस्यधनस्यपुष्टिंरराणाददती रादाने व्यत्ययेनशानच् छान्दसः शपः श्लुः अभ्यस्तानामादिरित्याद्युदात्तत्वम् ॥ ५ ॥ सिनीवाल्यायागेसिनीवालीत्यादिकेद्वेयाज्यानुवाक्ये सूत्रंपूर्वमुदाहृतम्

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५