मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३२, ऋक् ६

संहिता

सिनी॑वालि॒ पृथु॑ष्टुके॒ या दे॒वाना॒मसि॒ स्वसा॑ ।
जु॒षस्व॑ ह॒व्यमाहु॑तं प्र॒जां दे॑वि दिदिड्ढि नः ॥

पदपाठः

सिनी॑वालि । पृथु॑ऽस्तुके । या । दे॒वाना॑म् । असि॑ । स्वसा॑ ।
जु॒षस्व॑ । ह॒व्यम् । आऽहु॑तम् । प्र॒ऽजाम् । दे॒वि॒ । दि॒दि॒ड्ढि॒ । नः॒ ॥

सायणभाष्यम्

दृष्टचन्द्रामावास्यासिनीवाली हेसिनीवालि पृथुष्टुके पृथुजघनेपृथुसंहतकेशेवा यात्वंदेवानां- स्वसासि स्वयंसञ्चारिणीभगिनीवाभवसि सात्वंआहुतं आभिमुख्येनार्ग्राप्रक्षिप्तंहव्यं अस्मदीयं हविर्जुषस्वसेवस्व किञ्च हेदेवि सिनीवालि नोस्माकंप्रजांपुत्रादिकांदिदिड्वि उपचिनु अतिसर्ज यवा देहीत्यर्थः दिहउपचये लोटिछांदसःशपःश्लुः दिशातिसर्जनेइत्यस्माद्वा ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५