मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३२, ऋक् ७

संहिता

या सु॑बा॒हुः स्व॑ङ्गु॒रिः सु॒षूमा॑ बहु॒सूव॑री ।
तस्यै॑ वि॒श्पत्न्यै॑ ह॒विः सि॑नीवा॒ल्यै जु॑होतन ॥

पदपाठः

या । सु॒ऽबा॒हुः । सु॒ऽअ॒ङ्गु॒रिः । सु॒ऽसूमा॑ । ब॒हु॒ऽसूव॑री ।
तस्यै॑ । वि॒श्पत्न्यै॑ । ह॒विः । सि॒नी॒वा॒ल्यै । जु॒हो॒त॒न॒ ॥

सायणभाष्यम्

यासिनीवाली सुबाहुः शोभनबाहुः स्वङ्गुरिः शोभनाङ्गुलिः सुषूमा सुष्ठुप्रसवित्री षूङ् प्रा- णिप्रसवे अन्येभ्योपिद्रुश्यन्तइतिमनिन् क्रुदुत्तरपदप्रकृतिस्वरत्वम् बहुसूवरी बह्वीनांप्रजानांसवि त्री तेनैवसूत्रेणक्वनिप् वनोरचेतिङीब्रेफौ क्रुदुत्तरपदप्रकृतिस्वरत्वम् तस्यैसिनीवाल्यैविश्पत्नयै विशांपालयित्र्यै विभाषासपूर्वस्येतिपत्युर्नकारान्तादेशः अयस्मयादित्वेनभत्वाद्विशोजश्त्वाभावः परादिश्छन्दसिबहुलमित्युत्तरपदाद्युदात्तत्वम् हेऋत्विग्यजमानाः हविर्जुहोतन जुहुत तप्तनप्तनथ- नाश्चेतितनबादेशः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५