मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३२, ऋक् ८

संहिता

या गु॒ङ्गूर्या सि॑नीवा॒ली या रा॒का या सर॑स्वती ।
इ॒न्द्रा॒णीम॑ह्व ऊ॒तये॑ वरुणा॒नीं स्व॒स्तये॑ ॥

पदपाठः

या । गु॒ङ्गूः । या । सि॒नी॒वा॒ली । या । रा॒का । या । सर॑स्वती ।
इ॒न्द्रा॒णीम् । अ॒ह्वे॒ । ऊ॒तये॑ । व॒रु॒णा॒नीम् । स्व॒स्तये॑ ॥

सायणभाष्यम्

अत्रगुङ्गूशब्देनराकासिनीवाल्योः साहचर्यात्कुहूरुच्यते यागुङ्गूः कुहूस्तामह्वे आह्वयामि एवमुत्तरत्रापियोज्यम् तथा यासरस्वतीतांदेवींअह्वे इन्द्राणीमिन्द्रस्यपत्नींऊतयेरक्षणार्थंअह्वे आह्वयामि तथावरुणानींवरुणस्यपत्नींस्वस्तयेअविनाशायाह्वयामि इन्द्रवरुणेत्यादिनाङीष् आनुगागमश्च ॥ ८ ॥ चतुर्थेनुवाकेएकादशसूक्तानि तत्रातेपितरितिपञ्चदशर्चंप्रथमंसूक्तम् गृत्समदस्यार्षंत्रैष्टुभंरौ- द्रम् अनुक्रान्तञ्च—आतेपञ्चोनारौद्रमिति शूलगवादिरुद्रयज्ञेषुअनेनसूक्तेनप्रतीचीदिगुपस्थेया सूत्रितञ्च—कद्रुद्रायेमारुद्रायातेपितरिमारुद्रायस्थिरधन्वनइतिसर्वरुद्रयज्ञेषुदिशामुपस्थानइति । रुद्रदेवत्येपशौआतेपितरितिहविषोनुवाक्या सूत्रितञ्च—आतेपितर्मरुतांसुम्नमेतुप्रबभ्रवेवृषभायश्वि- तीचइतितिस्रइति । अत्रशौनकः—चतुर्दशीमुपोष्यैकांकृष्णस्यजुहुयाच्चरुम् । आतेसूक्तेनरौद्रेणप्रत्युचं वाग्यतः शुचिः ॥ १ ॥ पूर्वमाज्याहुतीर्हुत्वाथोपस्थायचशङ्करम् । हविःशेषेणवर्तेतनैकान्तरमतन्द्रितः ॥ २ ॥ पूर्णेमासेजयेन्म्रुत्युंरोगैश्चपरिमुच्यतइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५