मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३३, ऋक् २

संहिता

त्वाद॑त्तेभी रुद्र॒ शंत॑मेभिः श॒तं हिमा॑ अशीय भेष॒जेभि॑ः ।
व्य१॒॑स्मद्द्वेषो॑ वित॒रं व्यंहो॒ व्यमी॑वाश्चातयस्वा॒ विषू॑चीः ॥

पदपाठः

त्वाऽद॑त्तेभिः । रु॒द्र॒ । शम्ऽत॑मेभिः । श॒तम् । हिमाः॑ । अ॒शी॒य॒ । भे॒ष॒जेभिः॑ ।
वि । अ॒स्मत् । द्वेषः॑ । वि॒ऽत॒रम् । वि । अंहः॑ । वि । अमी॑वाः । चा॒त॒य॒स्व॒ । विषू॑चीः ॥

सायणभाष्यम्

हेरुद्र त्वादत्तेभिः त्वयादत्तैः शन्तमेभिः अतिशयेनसुखकरैर्भेषजेभिः भेषजैरौषधैः शतं हिमाः शतंहेमन्तान् शतंसंवत्सरान् अशीय व्याप्नुयाम् अश्नोतेर्लिङि छान्दसोविकरणस्यलुक् अपिच अस्म- दस्मत्तः द्वेषोद्वेष्टृन् विचातयस्व विनाशय तथा अंहः पापंवितरमत्यन्तं विचातयस्व अमीवाः रोगान् विषूचीः विषुनानाअञ्चतीः क्रुत्स्नशरीरव्यापकान् रोगान् विचातयस्व अस्मत्तः पृथक् कृत्यविना- शय ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६