मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३३, ऋक् ३

संहिता

श्रेष्ठो॑ जा॒तस्य॑ रुद्र श्रि॒यासि॑ त॒वस्त॑मस्त॒वसां॑ वज्रबाहो ।
पर्षि॑ णः पा॒रमंह॑सः स्व॒स्ति विश्वा॑ अ॒भी॑ती॒ रप॑सो युयोधि ॥

पदपाठः

श्रेष्ठः॑ । जा॒तस्य॑ । रु॒द्र॒ । श्रि॒या । अ॒सि॒ । त॒वःऽत॑मः । त॒वसा॑म् । व॒ज्र॒बा॒हो॒ इति॑ वज्रऽबाहो ।
पर्षि॑ । नः॒ । पा॒रम् । अंह॑सः । स्व॒स्ति । विश्वाः॑ । अ॒भिऽइ॑तीः । रप॑सः । यु॒यो॒धि॒ ॥

सायणभाष्यम्

हेरुद्र जातस्योत्पन्नस्यसर्वस्यजगतोमध्ये श्रियाऎश्वर्येणश्रेष्ठः प्रशस्यतमोसि भवसि तथा हेवज्र- बाहो आयुधहस्तरुद्र तवसां प्रव्रुद्धानांमध्येतवस्तमः अतिशयेनप्रवृद्धोसि सत्वं नोस्मान् अंहसः पापस्य पारंतीरं स्वस्तिक्षेमेणपर्षिपारय तथा रपसः पापस्य विश्वाः सर्वाः अभीतीरभिगमनानि- युयोधिपृथक्कुरु यौतेश्छान्दसःशपःश्लुः वाछन्दसीत्यपित्त्वस्यविकल्पनात् ङित्त्वाभावे अङितश्चे- तिहेर्धिः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६