मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३३, ऋक् ५

संहिता

हवी॑मभि॒र्हव॑ते॒ यो ह॒विर्भि॒रव॒ स्तोमे॑भी रु॒द्रं दि॑षीय ।
ऋ॒दू॒दरः॑ सु॒हवो॒ मा नो॑ अ॒स्यै ब॒भ्रुः सु॒शिप्रो॑ रीरधन्म॒नायै॑ ॥

पदपाठः

हवी॑मऽभिः । हव॑ते । यः । ह॒विःऽभिः । अव॑ । स्तोमे॑भिः । रु॒द्रम् । दि॒षी॒य॒ ।
ऋ॒दू॒दरः॑ । सु॒ऽहवः॑ । मा । नः॒ । अ॒स्यै । ब॒भ्रुः । सु॒ऽशिप्रः॑ । री॒र॒ध॒त् । म॒नायै॑ ॥

सायणभाष्यम्

योरुद्रः हविर्भिश्चरुपुरोडाशादिभिः सहितैर्हवीमभिराह्वानैः स्तुतिलक्षणैः हवते आहूयते स्तूय- ते व्यत्ययेनकर्मणिकर्तृप्रत्ययः बहुलंछन्दसीतिह्वयतेः सम्प्रसारणम् तंरुद्रंस्तोमेभिः स्तोत्रैरवदिषीय अवखण्डयामि पृथक्करोमि अपगतक्रोधंकरोमीतियावत् दोअवखण्डने व्यत्ययेनात्मनेपदं बहुलंछन्द- सीतीत्वम् ऋदूदरः ऋदूदरोमृदूदरइतियौस्कः । सुहवः शोभनशिप्रः एवंगुणविशिष्टःसरुद्रः अस्यैम- नायै हन्मीति मन्यमानाबुद्धिर्मना तस्यै नोस्मान् मारीरधत् मावशंनैषीत् रधहिंसासंराध्योः अस्मा- ण्ण्यन्तालुङिचङिरूपम रध्यतिर्वशगमनइतियास्कः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६