मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३३, ऋक् ६

संहिता

उन्मा॑ ममन्द वृष॒भो म॒रुत्वा॒न्त्वक्षी॑यसा॒ वय॑सा॒ नाध॑मानम् ।
घृणी॑व च्छा॒याम॑र॒पा अ॑शी॒या वि॑वासेयं रु॒द्रस्य॑ सु॒म्नम् ॥

पदपाठः

उत् । मा॒ । म॒म॒न्द॒ । वृ॒ष॒भः । म॒रुत्वा॑न् । त्वक्षी॑यसा । वय॑सा । नाध॑मानम् ।
घृणि॑ऽइव । छा॒याम् । अ॒र॒पाः । अ॒शी॒य॒ । आ । वि॒वा॒से॒य॒म् । रु॒द्रस्य॑ । सु॒म्नम् ॥

सायणभाष्यम्

वृषभः कामानांवर्षिता मरुत्वान् मरुद्भिःपुत्रैर्युक्तोरुद्रः नाधमानंयाचमानं मामांत्वक्षीयसादीप्ते- नवयसान्नेनउन्ममन्द उत्कर्षेणतर्षयतु अपिचाहंघृणीव छायां यथासूर्यकिरणतप्तः छायांप्रविशति एवंरुद्रस्यसुम्नं सुखंअरपाःअपापःसन् अशीयव्याप्नुयां तदर्थंतंरुद्रमाविवासेयं परिचरेयं विवासतिः परिचरणकर्मा ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७