मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३३, ऋक् ७

संहिता

क्व१॒॑ स्य ते॑ रुद्र मृळ॒याकु॒र्हस्तो॒ यो अस्ति॑ भेष॒जो जला॑षः ।
अ॒प॒भ॒र्ता रप॑सो॒ दैव्य॑स्या॒भी नु मा॑ वृषभ चक्षमीथाः ॥

पदपाठः

क्व॑ । स्यः । ते॒ । रु॒द्र॒ । मृ॒ळ॒याकुः॑ । हस्तः॑ । यः । अस्ति॑ । भे॒ष॒जः । जला॑षः ।
अ॒प॒ऽभ॒र्ता । रप॑सः । दैव्य॑स्य । अ॒भि । नु । मा॒ । वृ॒ष॒भ॒ । च॒क्ष॒मी॒थाः॒ ॥

सायणभाष्यम्

हेरुद्र तेतवमृळयाकुः सुखयिता स्यः सहस्तः क्वकुत्रवर्तते योहस्तः भेषजः भैषज्यकृत् जलाषः स- र्वेषांसुखकरोस्तिभवति सहस्तोविद्यतीव तेनहस्तेनमांरक्षेतिभावः अपिच हेवृषभ कामानांवर्षितः दैव्यस्यदेवक्रुतस्यरपसः पापस्यअपभर्ताअपहर्ताविनाशयिताभूत्वा कृतापराधं मामांनुक्षिप्रंअभिच- क्षमीथाः अभिक्षमस्व क्षमूष् सहने लङिछान्दसःशपःश्लुः बहुलंछन्दसीतिईडागमः ॥ ७ ॥ रुद्रदेवत्येपशौ वपापुरोडाशहविषांक्रमेणप्रबभ्रवइत्याद्यास्तिस्रोयाज्याः सूत्रितञ्च—प्रबभ्रवेवृष- भायश्वितीचइतितिस्रआपश्चातान्नासत्यापुस्तादिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७