मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३३, ऋक् ८

संहिता

प्र ब॒भ्रवे॑ वृष॒भाय॑ श्विती॒चे म॒हो म॒हीं सु॑ष्टु॒तिमी॑रयामि ।
न॒म॒स्या क॑ल्मली॒किनं॒ नमो॑भिर्गृणी॒मसि॑ त्वे॒षं रु॒द्रस्य॒ नाम॑ ॥

पदपाठः

प्र । ब॒भ्रवे॑ । वृ॒ष॒भाय॑ । श्वि॒ती॒चे । म॒हः । म॒हीम् । सु॒ऽस्तु॒तिम् । ई॒र॒या॒मि॒ ।
न॒म॒स्य । क॒ल्म॒ली॒किन॑म् । नमः॑ऽभिः । गृ॒णी॒मसि॑ । त्वे॒षम् । रु॒द्रस्य॑ । नाम॑ ॥

सायणभाष्यम्

बभ्रवेविश्वस्यभर्त्रेबभ्रुवर्णायवा वृषभायक्रामानांवर्षित्रे तद्वत्प्रसह्यकारिणेवा शितीचेश्वैत्यमञ्चते श्वितावर्णे औणादिकइन्प्रत्ययः शितीमञ्चतीति अञ्चतेरृत्विगित्यादिनाक्विन्प्रत्ययः चतुर्थ्येकव्चनेअच- इत्यकारलोपेचावितिदीर्घत्वम् उदात्तनिवृत्तिस्वरेणविभक्तेरुदात्तत्वम् एवं गुणविशिष्टायरुद्रायमहो- महींमहतोपिमहतींसुष्टुतिंशोभनस्तुतिंप्रेरयामि प्रकर्षेणोञ्जारयामि हेस्तोतः कल्मलीकिनं ज्वलतो- नामधेयमेतत् ज्वलन्तं कलयत्यपगमयतिमलमितिकल्मलीकंतेजः तद्वन्तंरुद्रं नमोभिर्नमस्कारैर्हविर्भि र्वानमस्यपूजय वयंच कलयत्यपगमयतिमलमितिकल्मलीकंतेजः तद्वन्तंरुद्रं नमोभिर्नमस्कारैर्हविर्भि- र्वानमस्यपूजय वयंच रुद्रस्यमहादेवस्यत्वेवंदीप्तंनामगृणीमसि गृणीमः संकीर्तयामः गॄशब्दे क्रैयादि- कः इदन्तोमसिः प्वादीनांह्रस्वः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७